|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.91. अध्यायः 091
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति उचथ्यमान्धातृसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
उचथ्य उवाच। 12-91-0x(5579)(68337)
कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः।
संपद्यदेषा भवति सा बिभर्ति सुखं प्रजाः॥ 12-91-1(68338)
यो न जानाति निर्हर्तुं वस्त्राणां रजको मलम्।
रत्नानि वा शोधयितुं यथा नास्ति तथैव सः॥ 12-91-2(68339)
एवमेतद्द्विजेन्द्राणां क्षत्रियाणां विशां तथा।
शूद्रश्चतुर्थो वर्णानां नानाकर्मस्ववस्थितः॥ 12-91-3(68340)
कर्म शूद्रे कृषिर्वैश्ये दण्डनीतिश्च राजनि।
ब्रह्मचर्यं तपो मन्त्राः सत्यं चापि द्विजातिषु॥ 12-91-4(68341)
तेषां यः क्षत्रियो वेद पात्राणामिव शोधनम्।
शीलदोषान्विनिर्हर्तुं स पिता स प्रजापतिः॥ 12-91-5(68342)
कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ।
राजवृत्तानि सर्वाणि राजैव युगमुच्यते॥ 12-91-6(68343)
चातुर्वर्ण्यं तथा वेदाश्चातुराश्रम्यमेव च।
सर्वमेतत्प्रमुह्येत यदा राजा प्रमाद्यति॥ 12-91-7(68344)
अग्नित्रेता त्रयी विद्या यज्ञाश्च सहदक्षिणाः।
सर्व एव प्रमुह्यन्ते यदा राजा प्रमाद्यति॥ 12-91-8(68345)
राजैव कर्ता भूतानां राजैव च विनाशकः।
धर्मात्मा यः स कर्ता स्यादधर्मात्मा विनाशकः॥ 12-91-9(68346)
राज्ञो भार्याश्च पुत्राश्च बान्धवाः सुहृदस्तथा।
समेत्य सर्वे शोचन्ति यदा राजा प्रमाद्यति॥ 12-91-10(68347)
हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः।
अधर्मवृत्ते नृपतौ सर्वे सीदन्ति जन्तवः॥ 12-91-11(68348)
[दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते।
अबलं तु महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम्॥ 12-91-12(68349)
यश्च भूतं संभजते ये च भूतास्तदन्वयाः।
अधर्मस्थे हि नृपतौ सर्वे शोचन्ति पार्थिव॥] 12-91-13(68350)
दुर्बलस्य च यच्चक्षुर्मुनेराशीविषस्य च।
अविषह्यतमं मन्ये मा स्म दुर्बलमासदः॥ 12-91-14(68351)
दुर्बलांस्तात मन्येथा नित्यमेवाविमानि तान्।
मा त्वां दुर्बलचक्षूंषि प्रदहेयुः सबान्धवम्॥ 12-91-15(68352)
न हि दुर्बलदग्धस्य कुले किंचित्प्ररोहति।
आमूलं निर्दहन्त्येव मा स्म दुर्बलमासद॥ 12-91-16(68353)
अबलं वै बलाच्छ्रेयो यच्चातिबलवद्बलम्।
बलस्याबलदग्धस्य न किंचितवशिष्यते॥ 12-91-17(68354)
विमानितो हतः क्लिष्टस्त्रातारं चेन्न विन्दन्ते।
अमानुषकृतस्तत्र दण्डो हन्ति नराधिपम्॥ 12-91-18(68355)
मा स्म तात बलस्थस्त्वं भुञ्जीथा दुर्बलं जनम्।
मा त्वां दुर्बलचक्षूंषि दहन्त्वग्निरिवाशयम्॥ 12-91-19(68356)
यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदताम्।
तानि पुत्रान्पशून्घ्नन्ति तेषां मिथ्याभिशंसिनां॥ 12-91-20(68357)
यदि नात्मनि पुत्रेषु न चेत्पौत्रेषु नप्नृषु।
न हि पापं कृतं कर्म सद्यः फलति गौरिब॥ 12-91-21(68358)
यत्राबलो वध्यमानस्त्रातारं नाधिगच्छति।
महान्दैवकृतस्तत्र दण्डः पतति दारुणः॥ 12-91-22(68359)
युक्ता यदा जानपदा भिक्षन्ते ब्राह्मणा इव।
अभीक्ष्णं भिक्षुरूपेण राजानं घ्नन्ति तादृशाः॥ 12-91-23(68360)
राज्ञो यदा जनपदे बहवो राजपूरुषाः।
अनयेनोपवर्तन्ते तद्राज्ञः किल्बिषं महत्॥ 12-91-24(68361)
यदा युक्त्या नयेदर्थान्कामादर्थवशेन वा।
कृपणं याचमानानां तद्राज्ञो वैशसं महत्॥ 12-91-25(68362)
महान्वृक्षो जायते वर्धते च
तं चैव भूतानि समाश्रयन्ति।
यदा वृक्षश्छिद्यते दह्यते च
तदाश्रया अनिकेता भवन्ति॥ 12-91-26(68363)
यदा राष्ट्रे धर्ममग्र्यं चरन्ति
संस्कारं का राजगुणं ब्रुवाणाः।
तैश्चाधर्मश्चरितो धर्ममोहा
त्तूप जह्यात्सुकृतं दुष्कृतं च॥ 12-91-27(68364)
यत्र पापा ज्ञायमानाश्चरन्ति
सभां कलिर्विन्दते तत्र राज्ञः।
यत्र राजा शास्ति नरान्न शक्त्या
न तद्राज्यं वर्धते भूमिपस्य॥ 12-91-28(68365)
यश्चामात्यान्मानयित्वा यथा हि
मन्त्रे च युद्धे च नृपोऽनुयुञ्ज्यात्।
बिबर्धते तस्य राष्ट्रं नृपस्य
भुङ्क्ते महीं चाप्यखिलां चिराय॥ 12-91-29(68366)
अत्रापि सुकृतं कर्म वाचं चैव सुभाषिताम्।
समीक्ष्य पूजयन्राजा धर्मं प्राप्नोत्यनुत्तमम्॥ 12-91-30(68367)
संविभज्य यदा भुङ्क्ते नचान्यानवमन्यते।
निहन्ति बलिनं दृप्तं स राज्ञो धर्म उच्यते॥ 12-91-31(68368)
त्रायते हि यदा सर्वं वाचा कायेन कर्मणा।
पुत्रस्यापि न मृष्येच्च स राज्ञो धर्म उच्यते॥ 12-91-32(68369)
संविभज्य यदा भुङ्क्ते नृपतिर्दुर्बलान्नरान्।
तदा भवन्ति बलिनः स राज्ञो धर्म उच्यते॥ 12-91-33(68370)
यदा रक्षति राष्ट्राणि यदा दस्यूनपोहति।
यदा जयति संग्रामे स राज्ञो धर्म उच्यते॥ 12-91-34(68371)
पापमाचरतो यत्र कर्मणा व्याहृतेन वा।
प्रियस्यापि न मृष्येत स राज्ञो धर्म उच्यते॥ 12-91-35(68372)
यदा सारणिकान्राजा पुत्रवत्परिरक्षति।
भिनत्ति न च मर्यादां स राज्ञो धर्म उच्यते॥ 12-91-36(68373)
यदाप्तदक्षिणैर्यज्ञैर्यजते श्रद्धयाऽन्वितः।
कामद्वेषावनादृत्य स राज्ञो धर्म उच्यते॥ 12-91-37(68374)
कृपणानाथवृद्धानां यदाऽश्रु परिमार्जति।
हर्षं संजनयन्नॄणां स राज्ञो धर्म उच्यते॥ 12-91-38(68375)
विवर्धयति मित्राणि तथाऽरींश्चापि कर्षति।
संपूजयति साधूंश्च स राज्ञो धर्म उच्यते॥ 12-91-39(68376)
सत्यं पालयति प्रीत्या नित्यं भूमिं प्रयच्छति।
पूजयेदतिथीन्भृत्यान्स राज्ञो धर्म उच्यते॥ 12-91-40(68377)
निग्रहानुग्रहौ चोभौ यत्र स्यातां प्रतिष्ठितौ।
अस्मिँल्लोके परे चैव राजा स प्राप्नुते फलम्॥ 12-91-41(68378)
यमो राजा धार्मिकाणां मान्धातः परमेश्वरः।
संयच्छन्यमवत्प्राणानसंयच्छंस्तु पावकः॥ 12-91-42(68379)
ऋत्विक्पुरोहिताचार्यान्सत्कृत्यानवमत्य च।
यदा सम्यक्प्रगृह्णाति स राज्ञो धर्म उच्यते॥ 12-91-43(68380)
यमो यच्छति भूतानि सर्वाण्येवाविशेषतः।
तथा राज्ञाऽनुकर्तव्यं यन्तव्या विधिवत्प्रजाः॥ 12-91-44(68381)
सहस्राक्षेण राजा हि सर्वथैवोपमीयते।
स पश्यति च यं धर्म स धर्मः पुरुषर्षभ॥ 12-91-45(68382)
अप्रमादेन शिक्षेथाः क्षमां बुद्धिं धृतिं मतिम्।
भूतानां तत्त्वजिज्ञासा साध्वसाधु च सर्वदा॥ 12-91-46(68383)
संग्रहः सर्वभूतानां दानं च मधुरा च वाक्।
पौरजानपदाश्चैव गोप्तव्याः स्वप्रजा यथा॥ 12-91-47(68384)
न जात्वदक्षो नृपतिः प्रजाः शक्नोति रक्षितुम्।
भारो हि सुमहांस्तात राज्यं नाम सुदुर्वहम्॥ 12-91-48(68385)
तद्दण्डविन्नृपः प्राज्ञः शूरः शक्नोति रक्षितुम्।
न हि शक्यमदण्डेन क्लीबेनाबुद्धिनाऽपि वा॥ 12-91-49(68386)
अभिरूपैः कुले जातैर्दक्षैर्भक्तैर्बहुश्रुतैः।
सर्वं बुद्ध्या परीक्षेथास्तापसाश्रमिणामपि॥ 12-91-50(68387)
अतस्त्वं सर्वभूतानां धर्मं वेत्स्यसि वै परम्।
स्वदेशे परदेशे वा न ते धर्मो विनङ्क्ष्यति॥ 12-91-51(68388)
धर्मेचार्थे च कामे च धर्म एवोत्तरो भवेत्।
अस्मिंल्लोके परे चैव धर्मात्मा सुखमेधते॥ 12-91-52(68389)
त्यजन्ति दारान्पुत्रांश्च मनुष्याः परिपूजिताः।
संग्रहश्चैव भूतानां दानं च मधुरा च वाक्॥ 12-91-53(68390)
अप्रमादश्च शौचं च राज्ञो भूतिकरं महत्।
एतेभ्यश्चैव मान्धातः सततं मा प्रमादिथाः॥ 12-91-54(68391)
अप्रमत्तो भवेद्राजा छिद्रदर्शी परात्मनोः।
नास्य च्छिद्रं परः पश्येच्छिद्रेषु परमन्वियात्॥ 12-91-55(68392)
एतद्वॄत्तं वासवस्य यमस्य वरुणस्य च।
राजर्षीणां च सर्वेषां तत्त्वमप्यनुपालय॥ 12-91-56(68393)
तत्कुरुष्व महाराज वृत्तं राजर्षिसेवितम्।
आतिष्ठ दिव्यं पन्थानमह्नाय पुरुषर्षभ॥ 12-91-57(68394)
धर्मवृत्तं हि राजानं प्रेत्य चेह च भारत।
देवर्षिपितृगन्धर्वाः कीर्तयन्ति महौजसः॥ 12-91-58(68395)
भीष्म उवाच। 12-91-59x(5580)
स एवमुक्तो मान्धाता तेनोचथ्येन भारत।
कृतवानविशङ्कश्च एकः प्राप च मेदिनीम्॥ 12-91-59(68396)
भवानपि तथा सम्यङ्भान्धातेव महीपते।
धर्मं कृत्वा महीं रक्ष स्वर्गे स्थानमवाप्स्यसि॥ ॥ 12-91-60(68397)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकनवतितमोऽध्यायः॥ 91॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-91-3 द्विजादीनां मध्ये यः कश्चिन्छूद्रो वा नानाकर्मस्ववस्थितः स्वकर्मच्युतो मूढः एवं रजकतुल्य इत्यर्थः॥ 12-91-8 अग्नित्रेता वह्नित्रयम्॥ 12-91-12 अबलस्य पालनान्महत्पुण्यमपालनाच्च महत्पापमित्यर्थः। 12-91-13 भूतं दुर्बलं संभजतेऽन्नादिना सेवते। तदन्वयाः दातृसंबन्धिनः॥ 12-91-21 यदि आत्मनि फलं पाप न फलति तर्हि पुत्रादिषु फलति नतु सद्यः फलतीत्यर्थः॥ 12-91-22 मोहाद्दैवकृत इति ड. थ. पाठः॥ 12-91-25 नयेत् अपहरेत्॥ 12-91-27 महानिति दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह यदेति। यदा धर्मं चरति तदा राजा वर्धत इति भावः। दुष्कृतं चापयातीत्यर्थः। राजपुत्रं ब्रुवाणा इति ट. ड. थ. पाठः॥ 12-91-28 यदा राज्रा शास्ति नरानशिष्टांस्तदा राज्यं वर्धते भूमिपस्येति झ. पाठः॥ 12-91-31 नामात्यानवमन्यत इति झ. पाठः॥ 12-91-33 संविभज्य यदा भुङ्क्ते नृपतिर्यदि पार्थिव। दुर्बलानां बलं चैवेति ट. ड.छ. पाठः॥ 12-91-36 सारणिकान् प्रसारिणीप्रधानान्वणिजः॥ 12-91-42 धार्मिकाणं परमेश्वरोऽनुग्राहकः। प्राणान् इन्द्रियाणि संयच्छन्भवेत्। अनियच्छंस्तु पावकः स्वाश्रयदाही भवतीत्यर्थः॥ 12-91-50 अमिरूपैरमात्यैः सहेति शेषः॥ 12-91-54 प्रमादिथाः प्रमाद्येषाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|